Stotra · माँ दुर्गा

श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य)

श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य)

परिचय

श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य) — सनातन सेवा डिजिटल भक्ति संग्रह। माँ दुर्गा की पारंपरिक उपासना।

ॐ

श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य)

Stotra · माँ दुर्गा

देव्यपराधक्षमापण स्तोत्रम् न मंत्रं नो यंत्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥

विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्। तदेतत् क्षंतव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥

पृथिव्यां पुत्रास्ते जननि बहवः संति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः। मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥

जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया। तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥

परित्यक्ता देवान्विविधविधिसेवाकुलतया मया पंचाशीतेरधिकमपनीते तु वयसि। इदानीं चेन्मातस्तव यदि कृपा नापि भविता निरालंबो लंबोदरजननि कं यामि शरणम्॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातंको रंको विहरति चिरं कोटिकनकैः। तवापर्णे कर्णे विशति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कंठे भुजगपतिहारी पशुपतिः। कपाली भूतेशो भजति जगदीशैकपदवीं भवानी त्वत्पाणिग्रहणपरिपाटी फलमिदम्॥

न मोक्षस्याकांक्षा न च विभववांछापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः। अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानी रुद्राणी शिव शिव भवानीति जपतः॥

नाराधितासि विधिना विविधोपचारैः किं रूक्षचिंतनपरैर्न कृतं वचोभिः। श्यामे त्वमेव यदि किंचन मय्यनाथे धत्से कृपामुचितमंब परं तवैव॥

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवे शिवे। नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ताः जननीं स्मरंति॥

जगदंब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि। अपराधपरंपरावृतं न हि माता समुपेक्षते सुतम्॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि। एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु॥

धुन के साथ सुनें

Sanatan Seva ऐप में श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य) की ऑडियो, सुनें और अपने परिवार के साथ गाएँ।

श्री देव्यपराधक्षमापण स्तोत्रम् (आदि शङ्कराचार्य) की धुन Sanatan Seva ऐप में सुनें

संबंधित सामग्री

सभी भजनों और आरतियों पर वापस जाएँ